Parābhūtiḥ Satām Bhavet
Parābhūtiḥ Satām Bhavet
समस्या ७
‘पराभूतिः सताम् भवेत्’ इति पादपूर्त्याः समाधानं कुरु।
आङ्ग्ला-ऽनुवादः
Solve the pādapūrti: पराभूतिः सताम् भवेत्।(May good people be defeated.)
समाधानानि
शशाप पुत्रशोकात् स धृतराष्ट्रो महीपतिः।
पाण्डवान् यादवञ्चेति पराभूतिः सताम् भवेत्॥— पोत्तूरिः रत्नाकरः (Ratnakar Potturi) | श्लोकः
अन्वयः
शिष्टानाम् लोकमित्राणाम् मधुरभारतीविदाम्।
धर्म्मपालनशक्तानाम् पराभूतिः सताम् भवेत्॥— पोत्तूरिः रत्नाकरः (Ratnakar Potturi) | श्लोकः
अन्वयः
दृष्ट्वा शूर्पणखां दीनां रावणः क्रोधमूर्च्छितः।
मारीचायाब्रवीत्तत्र पराभूतिः सताम् भवेत्॥— श्रीवात्सवः (Srivatsav) | श्लोकः
अन्वयः
लोका धार्मिकतां त्यक्त्वा लोभमोहपरायणाः।
पापं भजन्ति मूढास्ते पराभूतिः सतां भवेत्॥— श्रीवात्सवः (Srivatsav) | श्लोकः
अन्वयः
सर्वविनष्टो जूदात् सः धर्मात्मापि युधिष्ठिरः।
महायुद्धस्य कालार्थं पराभूतिः सतां भवेत्॥— श्रीवात्सवः (Srivatsav) | श्लोकः
अन्वयः
मन्दा भ्रष्टाश्च नेतारो धनवन्तश्च लोलुपाः।
यदि सन्तः प्रजानेत्रे पराभूतिः सतां भवेत्॥
अन्वयः
देहि मे परमंभक्तिं श्रद्धां च पुरुषोत्तम।
तयोर्विना तु संसारे पराभूतिस्सतां भवेत्॥
अन्वयः
भिषजाद्रिनिवासस्य महिमा केन गीयते।
वागीशः यस्य जिह्वास्थः परा भूतिस्सताम्भवेत्॥
अन्वयः
सदाजेतृत्वतो दर्पं ततश्चालस्यमेति ना।
कदा कदात्मवृद्ध्यर्थं पराभूतिः सतां भवेत्॥— अनिकेतः गणेशः (Aniketh Ganesh) | श्लोकः
अन्वयः
ऐश्वर्यं वञ्छनेनाप्तं धनं वाऽऽशु कुरीतिभिः।
नश्येते क्षणमात्रेण, परा भूतिः सतां भवेत्॥— अनिकेतः गणेशः (Aniketh Ganesh) | श्लोकः
अन्वयः
सतः सत्सद्म! नो नाम पराभूतिः सतां भवेत्।
सतः सत् सद्मनो नाम पराभूतिः सतां भवेत्॥— पक्षालः नागडा (Pakshal Nagda) | श्लोकः
अन्वयः
विष्णोऽज पुण्डरीकाक्ष लक्ष्मीकान्त जनार्दन।
त्वया महिमया भानोऽपराभूतिस्सतां भवेत्॥
त्रिपुरान्तक भूतेश कन्दर्पह शिवापते।
त्वया महिमया शम्भोऽपराभूतिस्सतां भवेत्॥— शङ्करनारायणः (Shankaranarayanan C) | श्लोकः
अन्वयः
भक्तः यया पराशक्त्या
परा भूति: सतां भवेत्।
प्राप्नोति यदि गर्वस्य
पराभूतिः स तां भवेत्॥— श्रीवर्षिणी (Sree Varshini V P) | श्लोकः
अन्वयः
यथा क्लिन्नं जलं सदा
गुणाः केचित्स्वभावजाः।
तथा धर्मे चिरं हि तत्
परा भूतिस्सतां भवेत्॥— हर्षः पीसपतिः (Harsha Peesapati)
अन्वयः
This post is licensed under CC BY 4.0 by the author.